01-30-33

गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः।।1.30।।

निमित्तानि च पश्यामि विपरीतानि केशव।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे।।1.31।।

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा।।1.32।।

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च।।1.33।।

01-30-33

01-28-29

अर्जुन उवाच

कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत्।
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्।।1.28।।

सीदन्ति मम गात्राणि मुखं च परिशुष्यति।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते।।1.29।।

01-28-29

01-26-27

01-26
तत्रापश्यत्स्थितान्पार्थः पितृ़नथ पितामहान्।
आचार्यान्मातुलान्भ्रातृ़न्पुत्रान्पौत्रान्सखींस्तथा।।1.26।।

01-27
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्।।1.27।।

01-26-27

01-23-25

01-23
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः।।1.23।।

01-24
सञ्जय उवाच

एवमुक्तो हृषीकेशो गुडाकेशेन भारत।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्।।1.24।।

01-25
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति।।1.25।।

01-23-25

01-21-22

01-21

सेनयोरुपयोर्मध्ये सथं स्थापय मेऽच्युत॥ 01.21॥

पदच्छेतः

सेनयोः, उपयोः, मध्ये, रथम्, स्थापय, मे, अच्युत।

पदपरिचयः

पदम् विवरणम् पदम् विवरणम्
सेनयोः आ. स्त्री. ष. द्विव. उपयोः आ. स्त्री. ष. द्विव.
मध्ये अ. पुं. स. एक. रथम् अ. पुं. द्वि. एक.
स्थापय स्था-पर. कर्तरि. लोट् मपु. एक. मे अस्मद्-द. सर्व. ष. एक.
अच्युत अ. पुं. सम्बो. एक.

पदार्थः

पदम् अर्थः पदम् अर्थः
अच्युत हे कृष्ण! सेनयोः सैन्ययोः
उपयोः द्वयोः मध्ये अन्तरे
मे मम रथम् स्यन्दनम्
स्थापय नीत्वा स्थापय

अन्वयः

अच्युत! सेनयोः उपयोः मध्ये मे रथं स्थापय।

आकाङ्क्षा

स्थापय
किं स्थापय? सथं स्थापय।
कस्य सथं स्थापय? मे सथं स्थापय।
कुत्र मे सथं स्थापय? मध्ये मे सथं स्थापय।
कयोः मध्ये मे सथं स्थापय? उपयोः मध्ये मे सथं स्थापय।
कयोः उपयोः मध्ये मे सथं स्थापय? सेनयोः उपयोः मध्ये मे सथं स्थापय।
अस्मिन् वाक्ये सम्बोधनपदं किम्? अच्युत।

तात्पर्यम्

हे कृष्ण! अनयोः कौरवपाण्डवसेनयोः मध्यभागे मम रथं स्थापय।

व्याकरणम्

सेनयोरुपयोर्मध्ये सथं स्थापय मेऽच्युत॥

सन्धिः

सेनयोरुपयोर्मध्ये सेनयोः + उपयोः विसर्गसन्धिः (रेफः)।
उपयोः + मध्ये विसर्गसन्धिः (रेफः)।
सथं स्थापय रथम् + स्थापय अनुस्वारसन्धिः।
मेऽच्युत॥ मे + अच्युत पूर्वरूपसन्धिः।

समासः

अच्युतः न + च्युतः नञ्-तत्पुरुष।

01-22
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्।
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे।।1.22।।

01-21-22

01-19-20-B

01-19

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।

नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥

01-20

अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः।

प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः॥

हृषीकेशं तदा वाक्यमिदमाह महीपते।

01-19

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।

नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥

पदच्छेतः

सः, घोषः, धार्तराष्ट्राणाम्, हृदायानि, व्यदारयत्।

नभः, च, पृथिवीम्, च, एव, तुमुलः, व्यनुनादयन्॥

पदपरिचयः

पदम् विवरणम् पदम् विवरणम्
सः तद्-द. पुं. प्र. एक. घोषः अ. पुं. प्र. एक.
धार्तराष्ट्राणाम् अ. पुं. ष. बहु. हृदायानि अ. नपुं. द्वि. बहु.
व्यदारयत् वि + दृ-णिच्. कर्तरि लङ्. प्रपु. एक. नभः नभस्-स. नपुं. द्वि. एक.
अव्ययम् पृथिवीम् ई. स्री. द्वि. एक.
एव अव्ययम् तुमुलः अ. पुं. प्र. एक.
व्यनुनादयन् व्यनुनादयत्-त. पुं. प्र. एक.

पदार्थः

पदम् अर्थः पदम् अर्थः
सः स एषः तुमुलः धोरः
घोषः नादः नभः आकाशम्
पृथिवीं च भूमिं च व्यनुनादयन् प्रतिध्वनयन्
धार्तराष्ट्राणाम् कौरवाणाम् हृदयानि मनांसि
व्यदारयत् अखण्डयत्

अन्वयः

सः तुमुलः घोषः नभः पृथिवीं च व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्।

आकाङ्क्षा

व्यदारयत्
कः व्यदारयत्? घोषः व्यदारयत्।
कः घोषः व्यदारयत्? सः घोषः व्यदारयत्।
सः कीदृशः घोषः व्यदारयत्? सः तुमुलः घोषः व्यदारयत्।
सः तुमुलः घोषः कानि व्यदारयत्? सः तुमुलः घोषः हृदयानि व्यदारयत्।
सः तुमुलः घोषः केषां हृदयानि व्यदारयत्? सः तुमुलः घोषः धार्तराष्ट्राणां हृदयानि व्यदारयत्।
सः तुमुलः घोषः किं कुर्वन् धार्तराष्ट्राणां हृदयानि व्यदारयत्? सः तुमुलः घोषः व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्।
सः तुमुलः घोषः किं व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्? सः तुमुलः घोषः नभः व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्।
सः तुमुलः घोषः नभः पुनश्च कां व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्? सः तुमुलः घोषः नभः पृथिवीं च व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्।

तात्पर्यम्

सर्वेऽपि महावीराः युगपदेव शङ्खान् ध्मातवन्तः इति तदा महान् धोरश्च शब्दः समुत्पन्न्ः। तेन आकाशे भूमौ च प्रतिध्वनिः जातः। तस्य धोषस्य श्रवणेन दुष्टानां कौरवाणां हृदयानि विभिन्नानि इन अभवन्।

व्याकरणम्

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।

नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥

सन्धिः

स घोषो सः + घोषो विसर्गसन्धिः (लोपः)
घोषो धार्तराष्ट्राणाम् घोषः + धार्तराष्ट्राणाम् विसर्गसन्धिः (सकारः), रेफः, उकारः, गुणः
धार्तराष्ट्राणां हृदयानि धार्तराष्ट्राणाम् + हृदयानि अनुस्वारसन्धिः
नभश्च नभः + च विसर्गसन्धिः (सकारः) श्चुत्वम्
पृथिवीं चैव पृथिवीम् + चैव अनुस्वारसन्धिः
चैव च + एव वृद्धिसन्धिः
तुमुलो व्यनुनादयन् तुमुलः + व्यनुनादयन् विसर्गसन्धिः (सकारः), रेफः, उकारः, गुणः

तद्धितान्तः

धार्तराष्ट्राणाम् धृतराष्ट्र + अण् (अपत्यार्थे)। धृतराष्ट्रस्य अपत्यानि पुमांसः।

01-20

अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः।

प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः॥

हृषीकेशं तदा वाक्यमिदमाह महीपते।

पदच्छेतः

अथ, व्यवस्थितान्, दृष्ट्वा, धार्तराष्ट्रान्, कपिध्वजः।

प्रवृत्ते, शस्त्रसम्पाते, धनुः, उद्यम्य, पाण्डवः॥

हृषीकेशम्, तदा, वाक्यम्, इदम्, आह, महीपते।

पदपरिचयः

पदम् विवरणम् पदम् विवरणम्
अथ अव्ययम् व्यवस्थितान् अ. पुं. द्वि. बहु.
दृष्ट्वा अव्ययम् धार्तराष्ट्रान् अ. पुं. द्वि. बहु.
कपिध्वजः अ. पुं. प्र. एक. प्रवृत्ते अ. पुं. स. एक
शस्त्रसम्पाते अ. पुं. स. एक धनुः धनुष्-ष. नपुं. द्वि. एक.
उद्यम्य ल्यबन्तम् अव्ययम् पाण्डवः अ. पुं. प्र. एक.
हृषीकेशम् अ. पुं. द्वि. एक. तदा अव्ययम्
वाक्यम् अ. नपुं. द्वि. एक. इदम् इदम-म्. नपुं. द्वि. एक.
आह ब्रुञ्-पर. कर्तरि. प्रपु. एक. महीपते इ. पुं. सम्बो. एक.

पदार्थः

पदम् अर्थः पदम् अर्थः
महीपते हे धृतराष्ट्र! अथ ततः
व्यवस्थितान् उद्युक्तान् धार्तराष्ट्रान् कौरवान्
दृष्ट्वा वीक्ष्य कपिध्वजः वानरकेतनः
पाण्डवः अर्जुनः शस्त्रसम्पाते आयुधपाते
प्रवृत्ते सम्पन्ने धनुः चापम्
उद्यम्य उद्धृत्य तदा तस्मिन् समये
हृषीकेशम् कृष्णम् इदम् एतत्
वाक्यम् वचनम् आह वदति

अन्वयः

हे महीपते! अथ व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा कपिद्वजः पाण्डवः शस्त्रसम्पाते प्रवृते धनुः उद्यम्य तदा हृषीकेशम् इदं वाक्यम् आह।

आकाङ्क्षा

आह
कः आह? पाण्डवः आह।
कीदृशः पाण्डवः आह? कपिद्वजः पाण्डवः आह।
कपिद्वजः पाण्डवः किम् आह? कपिद्वजः पाण्डवः वाक्यम् आह।
कपिद्वजः पाण्डवः किं वाक्यम् आह? कपिद्वजः पाण्डवः इदं वाक्यम् आह।
कपिद्वजः पाण्डवः कम् इदं वाक्यम् आह? कपिद्वजः पाण्डवः हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः किं कृत्वा हृषीकेशम् इदं वाक्यम् आह? कपिद्वजः पाण्डवः दृष्ट्वा हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः कान् दृष्ट्वा हृषीकेशम् इदं वाक्यम् आह? कपिद्वजः पाण्डवः धार्तराष्ट्रान् दृष्ट्वा हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः कथंभूतान् धार्तराष्ट्रान् दृष्ट्वा हृषीकेशम् इदं वाक्यम् आह? कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा पुनश्च किं कृत्वा हृषीकेशम् इदं वाक्यम् आह? कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा उद्यम्य हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा किम् उद्यम्य हृषीकेशम् इदं वाक्यम् आह? कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा धनुः उद्यम्य हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा कदा धनुः उद्यम्य हृषीकेशम् इदं वाक्यम् आह? कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा प्रवृत्ते (सति) धनुः उद्यम्य हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा कस्मिन् प्रवृत्ते धनुः उद्यम्य हृषीकेशम् इदं वाक्यम् आह? कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा शस्त्रसम्पाते प्रवृत्ते धनुः उद्यम्य हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा शस्त्रसम्पाते प्रवृत्ते धनुः उद्यम्य कदा हृषीकेशम् इदं वाक्यम् आह? कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा शस्त्रसम्पाते प्रवृत्ते धनुः उद्यम्य तदा हृषीकेशम् इदं वाक्यम् आह।
कदा कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा शस्त्रसम्पाते प्रवृत्ते धनुः उद्यम्य तदा हृषीकेशम् इदं वाक्यम् आह? अथ कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा शस्त्रसम्पाते प्रवृत्ते धनुः उद्यम्य तदा हृषीकेशम् इदं वाक्यम् आह।
अस्मिन् वाक्ये सम्बोधनपदं किम्? महीपते

तात्पर्यम्

महीपते! अथ अर्जुनः युद्धसन्नद्धान् कौरवान् अपश्यत्। तदा शस्त्रप्रहारोऽपि आरब्धः। अर्जुनः धनुः उद्यम्य श्रीकृष्णम् एवम् अवदत्।

व्याकरणम्

अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः।

प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः॥

हृषीकेशं तदा वाक्यमिदमाह महीपते।

सन्धिः

धनुरुद्यम्य धनुः + उद्यम्य विसर्गसन्धिः (रेफः)।
हृषीकेशं तदा हृषीकेशम् + तदा अनुस्वारसन्धिः।

समासः

महीपते मह्याः पतिः, तत्सम्बुद्धौ षष्ठीतत्पुरुषः।
कपिध्वजः कपिः द्वजे सस्य सः बहुव्रीहिः।
शस्त्रसम्पाते शस्त्राणां सम्पातः, तस्मिन् षष्ठीतत्पुरुषः।
हृषीकेशं हृषीकाणाम् ईशः
हृषीकाणीन्द्रियाण्याहुस्तेषामीशो यतो भवान्।हृषीकेशस्ततो विष्णो ख्यातो देवेषु केशव॥ – महाभरतम्
षष्ठीतत्पुरुषः। (हृषीकम् इन्द्रियम्)

कृतन्तः

व्यवस्थितान् वि + अव् + स्था + क्त (कर्तरि), तान्।
प्रवृत्ते प्र + वृत् + क्त (कर्तरि), तस्मिन्।
सम्पाते सम् + पत् + घञ् (भावे), तस्मिन्।

तद्धितान्तः

पाण्डवः पाण्डु + अण् (अपत्यार्थे) । पाण्डोः अपत्यं पुमान् इति पाण्डवः ।
धार्तराष्ट्रान् धृतराष्ट्र + अण् (अपत्यार्थे)। धृतराष्ट्रस्य अपत्यानि पुमांसः।
01-19-20-B