01-11-13

01-11

अयनेषु च सर्वेषु यथाभागमवस्थिताः।

भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि।।1.11।।

पदच्छेतः

अयनेषु, च, सर्वेषु, यथाभागम्, अवस्थिताः।

भीष्मम्, एव, अभिरक्षन्तु, भवन्तः, सर्वे, एव, हि॥

पदपरिचयः

पदम् विवरणम् पदम् विवरणम्
अयनेषु अ. नपुं. स. बहु. अन्वयम्
सर्वेषु अ. पुं. सर्व. स. बहु. यथाभागम् अन्वयम्
अवस्थिताः अ. पुं. प्र. बहु. भीष्मम् अ. पुं. द्वि. एक.
एव अन्वयम् अभिरक्षन्तु अभि + रक्ष् – पर.लोट्.प्रत.बहु.
भवन्तः भवत्-त. पुं. प्र. बहु. सर्वे अ. पुं. सर्व. प्र. बहु.
एव अन्वयम् हि अन्वयम्

पदार्थः

पदम् अर्थः पदम् अर्थः
सर्वेषु सकलेषु अयनेषु व्यूहानां द्वारेषु
यथाभागम् स्वस्वभागे अवस्थिताः स्थिताः
भवन्तः सर्वे समस्ताः भवन्तः भीष्मम् एव भीष्माचार्यम् एव
अभिरक्षन्तु संरक्षन्तु

अन्वयः

सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे भीष्मम् एव अभिरक्षन्तु।

आकाङ्क्षा

अभिरक्षन्तु
के अभिरक्षन्तु? भवन्तः अभिरक्षन्तु।
भवन्तः कीयन्तः अभिरक्षन्तु? भवन्तः सर्वे अभिरक्षन्तु।
कीदृशाः भवन्तः सर्वे अभिरक्षन्तु? अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु।
कथम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु? यथाभागम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु।
कुत्र यथाभागम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु? अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु।
कतिषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु? सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु।
सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे कम् एव अभिरक्षन्तु? सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे भीष्मम् एव अभिरक्षन्तु।

तात्पर्यम्

भवन्तः सर्वेऽपि व्यूहानां द्वारदेशेषु स्वस्वस्थाने तिष्ठन्तु। सेनाधिपतीं भीष्मं च रक्षन्तु।

व्याकरणम्

सन्धिः

एवाभिरक्षन्तु एव + अभिरक्षन्तु सवर्णदीर्धसन्धिः
सर्व एव सर्वे + एव यान्तवान्तादेशसन्धिः, यलोपः, प्रकृतिभावः

समासः

यथाभागम् भागम् अवतिक्रम्य अव्ययीभावः

कृदन्तः

अवस्थिताः अव + स्था + क्त (कर्तरि)
अयनेषु अय् + ल्युट् (करणे) अयन्ते (गच्छन्ति) एभिः इति अयनानि, तेषु।

01-12

तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः।

सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्॥१.१२॥

पदच्छेतः

तस्य, सञ्जनयन्, हर्षम्, कुरुवृद्धः, पितामहः।

सिंहनादम्, विनद्य, उच्चैः, शङ्खम्, दध्मौ, प्रतापवान्॥

पदपरिचयः

पदम् विवरणम् पदम् विवरणम्
तस्य तद्-द. सर्व. पुं. ष. एक. सञ्जनयन् सञ्जनयत्-त. पुं. प्र. एक.
हर्षम् अ. पुं. द्वि. एक. कुरुवृद्धः अ. पुं. प्र. एक.
पितामहः अ. पुं. प्र. एक. सिंहनादम् णमुलन्तम् अव्ययम्
विनद्य ल्यबन्तम् अव्ययम् उच्चैः अव्ययम्
शङ्खम् अ. पुं. द्वि. एक. दध्मौ ध्मा-पर. कर्तरि. लिट्. प्रपु. एक.
प्रतापवान्॥ प्रतापवत्-त. पुं. प्र. एक.

पदार्थः

पदम् अर्थः पदम् अर्थः
प्रतापवान् तेजस्वी कुरुवृद्धः कुरुषु ज्येष्टः
पितामहः भीष्मः तस्य दुर्योधनस्य
हर्षम् मोदम् सञ्जनयन् उत्पादयन्
सिंहनादं विनद्य सिहः इव गर्जित्वा शङखम् शङखम्
उच्चैः गाढम् दध्मौ आध्मातवान्

अन्वयः

प्रतापवान् कुरुवृद्धः पितामहः तस्य हर्षं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ।

आकाङ्क्षा

दध्मौ
कः दध्मौ? पितामहः दध्मौ।
कीदृशः पितामहः दध्मौ? कुरुवृद्धः पितामहः दध्मौ।
पुनः कीदृशः कुरुवृद्धः पितामहः दध्मौ? प्रतापवान् कुरुवृद्धः पितामहः दध्मौ।
प्रतापवान् कुरुवृद्धः पितामहः कं दध्मौ? प्रतापवान् कुरुवृद्धः पितामहः शङ्खं दध्मौ।
प्रतापवान् कुरुवृद्धः पितामहः कथं शङ्खं दध्मौ? प्रतापवान् कुरुवृद्धः पितामहः उच्चैः शङ्खं दध्मौ।
प्रतापवान् कुरुवृद्धः पितामहः किं कृत्वा उच्चैः शङ्खं दध्मौ? प्रतापवान् कुरुवृद्धः पितामहः विनद्य उच्चैः शङ्खं दध्मौ।
प्रतापवान् कुरुवृद्धः पितामहः कथं विनद्य उच्चैः शङ्खं दध्मौ? प्रतापवान् कुरुवृद्धः पितामहः सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ।
प्रतापवान् कुरुवृद्धः पितामहः किं कुर्वन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ? प्रतापवान् कुरुवृद्धः पितामहः सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ।
प्रतापवान् कुरुवृद्धः पितामहः कं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ? प्रतापवान् कुरुवृद्धः पितामहः हर्षं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ।
प्रतापवान् कुरुवृद्धः पितामहः कस्य हर्षं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ? प्रतापवान् कुरुवृद्धः पितामहः तस्य हर्षं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ।

तात्पर्यम्

तदा पितामहः भीष्मः सिंहः इव उच्चैः गर्जनम् अकरोत्। ततः शङ्खमपि उच्चैः अधमत् येन दु्र्योधनस्य महान् सन्तोषः जातः।

व्याकरणम्

सन्धिः

हर्षं कुरुवृद्धः हर्षम् + कुरुवृद्धः अनुस्वारसन्धिः
विनद्योच्चैः विनद्य + उच्चैः गुणसन्धिः
सिंहनादं विनद्योच्चैः सिंहनादम् + विनद्योच्चैः अनुस्वारसन्धिः
शङ्खं दध्मौ शङ्खम् + दध्मौ अनुस्वारसन्धिः

समासः

कुरुवृद्धः कुरुषु वृद्धः सप्तमीतत्पुरुषः

कृदन्तः

सञ्जनयन् सम् + जन् + णिच् + शतृ कर्तरि
सिंहनादं विनद्य सिंह + नद् + णमुल् (भावे) उपमानवाचके शब्दे उपपदे धातोः णमुल् (अम्)

वि + नद् + ल्यप् (भावे)

तद्धितान्तः

पितामहः पितृ + डामहच् (पिता इत्यर्थे)। पितुः पिता
प्रतापवान् प्रताप् + मतुप्। प्रतापः अस्य अस्मिन् वा अस्ति।


01-13

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः।

सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्।।1.13।।

पदच्छेतः

ततः, शङ्खाः, च, भेर्यः, च, पणवानकगोमुखाः।

सहसा, एव, अभ्यहन्यन्त, सः, शब्दः, तुमलः, अभवत्॥

पदपरिचयः

पदम् विवरणम् पदम् विवरणम्
ततः अन्वयम् शङ्खाः अ. पुं. प्र. बहु.
अन्वयम् भेर्यः इ. स्त्री. प्र. बहु.
पणवानकगोमुखाः अ. पुं. प्र. बहु. सहसा अन्वयम्
एव अनवयम् अभ्यहन्यन्त अभि + हन्-आत्म. कर्मणि लङ् प्रपु. बहु.
सः तद्-द. सर्व. पुं. प्र. एक. शब्दः अ. पुं. प्र. एक.
तुमलः अ. पुं. प्र. एक. अभवत् भू-पर. कर्तरि लङ् प्रपु. एक.

पदार्थः

पदम् अर्थः पदम् अर्थः
तदा तस्मिन् समये शङ्खाः शङ्खाः
भेर्यः भेर्यः पणवानकगोमुखाः पणवाः आनकाः गोमुखाश्च
सहसा एव युगपत् एव अभ्यहन्यन्त नादिताः अभवन्
सः सः शब्दः नादः
तुमुलः धोरः अभवत् सञ्जातः

अन्वयः

तदा शङ्खाः भेर्यः पणवानकगोमुखाः च सहसा एव अभ्यहन्यन्त। सः शब्दः तुमुलः अभवत्।

आकाङ्क्षा

अभ्यहन्यन्त
के अभ्यहन्यन्त? शङ्खाः अभ्यहन्यन्त।
शङ्खाः पुनश्च काः अभ्यहन्यन्त? शङ्खाः भेर्यः अभ्यहन्यन्त।
शङ्खाः भेर्यः पुनश्च के अभ्यहन्यन्त? शङ्खाः भेर्यः पणवानकगोमुखाः अभ्यहन्यन्त।
शङ्खाः भेर्यः पणवानकगोमुखाः च कथं  अभ्यहन्यन्त? शङ्खाः भेर्यः पणवानकगोमुखाः च सहसा एव अभ्यहन्यन्त।
कदा शङ्खाः भेर्यः पणवानकगोमुखाः च सहसा एव अभ्यहन्यन्त? तदा शङ्खाः भेर्यः पणवानकगोमुखाः च सहसा एव अभ्यहन्यन्त
अभवत्
कः अभवत्? सः अभवत्।
सः कः अभवत्? सः शब्दः अभवत्।
सः शब्दः कीदृशः अभवत्? सः शब्दः तुमुलः अभवत्।

तात्पर्यम्

तस्मिन् एव काले शङ्खानां धमनम्, भेरीणां ताडनम्, पणवानाम् आनकानां गोमुखानां च वादनमं सम्पन्नम्, येन सर्वत्र महान् शब्दः संजातः।

व्याकरणम्

सन्धिः

शङ्खाश्च शङ्खाः + च विसर्गसन्धिः (सकारः) श्चुत्वम्
भेर्यश्च भेर्यः + च विसर्गसन्धिः (सकारः) श्चुत्वम्
सहसैवाभ्यहन्यन्त सहसा + एव वृद्धिसन्धिः
सहसैव + अभ्यहन्यन्त सवर्णदीर्धसन्धिः
शब्दस्तुमुलोऽभवत् शब्दः + तुमुलः विसर्गसन्धिः (सकारः)
शब्दतुमुलः + अभवत् विसर्गसन्धिः (सकारः)

रेफः, उकारः, गुणः, पूर्वरूपम्

समासः

गोमुखः गोः मुखम् इव मुखं यस्य सः बहुव्रीहिः। वाद्यविशेषः।
पणवानकगोमुखाः। पणवाश्च आनकाश्च गोमुखाश्च द्वन्द्वः। वाद्यविशेषाः।
Advertisements
01-11-13

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s