01-19-20-A

01-19

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।

नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥

01-20

अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः।

प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः॥

हृषीकेशं तदा वाक्यमिदमाह महीपते।

01-19

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।

नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥

पदच्छेतः

सः, घोषः, धार्तराष्ट्राणाम्, हृदायानि, व्यदारयत्।

नभः, च, पृथिवीम्, च, एव, तुमुलः, व्यनुनादयन्॥

पदपरिचयः

पदम् विवरणम् पदम् विवरणम्
सः तद्-द. पुं. प्र. एक. घोषः अ. पुं. प्र. एक.
धार्तराष्ट्राणाम् अ. पुं. ष. बहु. हृदायानि अ. नपुं. द्वि. बहु.
व्यदारयत् वि + दृ-णिच्. कर्तरि लङ्. प्रपु. एक. नभः नभस्-स. नपुं. द्वि. एक.
अव्ययम् पृथिवीम् ई. स्री. द्वि. एक.
एव अव्ययम् तुमुलः अ. पुं. प्र. एक.
व्यनुनादयन् व्यनुनादयत्-त. पुं. प्र. एक.

पदार्थः

पदम् अर्थः पदम् अर्थः
सः स एषः तुमुलः धोरः
घोषः नादः नभः आकाशम्
पृथिवीं च भूमिं च व्यनुनादयन् प्रतिध्वनयन्
धार्तराष्ट्राणाम् कौरवाणाम् हृदयानि मनांसि
व्यदारयत् अखण्डयत्

अन्वयः

सः तुमुलः घोषः नभः पृथिवीं च व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्।

आकाङ्क्षा

व्यदारयत्
कः व्यदारयत्? घोषः व्यदारयत्।
कः घोषः व्यदारयत्? सः घोषः व्यदारयत्।
सः कीदृशः घोषः व्यदारयत्? सः तुमुलः घोषः व्यदारयत्।
सः तुमुलः घोषः कानि व्यदारयत्? सः तुमुलः घोषः हृदयानि व्यदारयत्।
सः तुमुलः घोषः केषां हृदयानि व्यदारयत्? सः तुमुलः घोषः धार्तराष्ट्राणां हृदयानि व्यदारयत्।
सः तुमुलः घोषः किं कुर्वन् धार्तराष्ट्राणां हृदयानि व्यदारयत्? सः तुमुलः घोषः व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्।
सः तुमुलः घोषः किं व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्? सः तुमुलः घोषः नभः व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्।
सः तुमुलः घोषः नभः पुनश्च कां व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्? सः तुमुलः घोषः नभः पृथिवीं च व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्।

तात्पर्यम्

सर्वेऽपि महावीराः युगपदेव शङ्खान् ध्मातवन्तः इति तदा महान् धोरश्च शब्दः समुत्पन्न्ः। तेन आकाशे भूमौ च प्रतिध्वनिः जातः। तस्य धोषस्य श्रवणेन दुष्टानां कौरवाणां हृदयानि विभिन्नानि इन अभवन्।

व्याकरणम्

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।

नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥

सन्धिः

स घोषो सः + घोषो विसर्गसन्धिः (लोपः)
घोषो धार्तराष्ट्राणाम् घोषः + धार्तराष्ट्राणाम् विसर्गसन्धिः (सकारः), रेफः, उकारः, गुणः
धार्तराष्ट्राणां हृदयानि धार्तराष्ट्राणाम् + हृदयानि अनुस्वारसन्धिः
नभश्च नभः + च विसर्गसन्धिः (सकारः) श्चुत्वम्
पृथिवीं चैव पृथिवीम् + चैव अनुस्वारसन्धिः
चैव च + एव वृद्धिसन्धिः
तुमुलो व्यनुनादयन् तुमुलः + व्यनुनादयन् विसर्गसन्धिः (सकारः), रेफः, उकारः, गुणः

तद्धितान्तः

धार्तराष्ट्राणाम् धृतराष्ट्र + अण् (अपत्यार्थे)। धृतराष्ट्रस्य अपत्यानि पुमांसः।

01-20

अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः।

प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः॥

हृषीकेशं तदा वाक्यमिदमाह महीपते।

पदच्छेतः

अथ, व्यवस्थितान्, दृष्ट्वा, धार्तराष्ट्रान्, कपिध्वजः।

प्रवृत्ते, शस्त्रसम्पाते, धनुः, उद्यम्य, पाण्डवः॥

हृषीकेशम्, तदा, वाक्यम्, इदम्, आह, महीपते।

पदपरिचयः

पदम् विवरणम् पदम् विवरणम्
अथ अव्ययम् व्यवस्थितान् अ. पुं. द्वि. बहु.
दृष्ट्वा अव्ययम् धार्तराष्ट्रान् अ. पुं. द्वि. बहु.
कपिध्वजः अ. पुं. प्र. एक. प्रवृत्ते अ. पुं. स. एक
शस्त्रसम्पाते अ. पुं. स. एक धनुः धनुष्-ष. नपुं. द्वि. एक.
उद्यम्य ल्यबन्तम् अव्ययम् पाण्डवः अ. पुं. प्र. एक.
हृषीकेशम् अ. पुं. द्वि. एक. तदा अव्ययम्
वाक्यम् अ. नपुं. द्वि. एक. इदम् इदम-म्. नपुं. द्वि. एक.
आह ब्रुञ्-पर. कर्तरि. प्रपु. एक. महीपते इ. पुं. सम्बो. एक.

पदार्थः

पदम् अर्थः पदम् अर्थः
महीपते हे धृतराष्ट्र! अथ ततः
व्यवस्थितान् उद्युक्तान् धार्तराष्ट्रान् कौरवान्
दृष्ट्वा वीक्ष्य कपिध्वजः वानरकेतनः
पाण्डवः अर्जुनः शस्त्रसम्पाते आयुधपाते
प्रवृत्ते सम्पन्ने धनुः चापम्
उद्यम्य उद्धृत्य तदा तस्मिन् समये
हृषीकेशम् कृष्णम् इदम् एतत्
वाक्यम् वचनम् आह वदति

अन्वयः

हे महीपते! अथ व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा कपिद्वजः पाण्डवः शस्त्रसम्पाते प्रवृते धनुः उद्यम्य तदा हृषीकेशम् इदं वाक्यम् आह।

आकाङ्क्षा

आह
कः आह? पाण्डवः आह।
कीदृशः पाण्डवः आह? कपिद्वजः पाण्डवः आह।
कपिद्वजः पाण्डवः किम् आह? कपिद्वजः पाण्डवः वाक्यम् आह।
कपिद्वजः पाण्डवः किं वाक्यम् आह? कपिद्वजः पाण्डवः इदं वाक्यम् आह।
कपिद्वजः पाण्डवः कम् इदं वाक्यम् आह? कपिद्वजः पाण्डवः हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः किं कृत्वा हृषीकेशम् इदं वाक्यम् आह? कपिद्वजः पाण्डवः दृष्ट्वा हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः कान् दृष्ट्वा हृषीकेशम् इदं वाक्यम् आह? कपिद्वजः पाण्डवः धार्तराष्ट्रान् दृष्ट्वा हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः कथंभूतान् धार्तराष्ट्रान् दृष्ट्वा हृषीकेशम् इदं वाक्यम् आह? कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा पुनश्च किं कृत्वा हृषीकेशम् इदं वाक्यम् आह? कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा उद्यम्य हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा किम् उद्यम्य हृषीकेशम् इदं वाक्यम् आह? कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा धनुः उद्यम्य हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा कदा धनुः उद्यम्य हृषीकेशम् इदं वाक्यम् आह? कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा प्रवृत्ते (सति) धनुः उद्यम्य हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा कस्मिन् प्रवृत्ते धनुः उद्यम्य हृषीकेशम् इदं वाक्यम् आह? कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा शस्त्रसम्पाते प्रवृत्ते धनुः उद्यम्य हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा शस्त्रसम्पाते प्रवृत्ते धनुः उद्यम्य कदा हृषीकेशम् इदं वाक्यम् आह? कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा शस्त्रसम्पाते प्रवृत्ते धनुः उद्यम्य तदा हृषीकेशम् इदं वाक्यम् आह।
कदा कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा शस्त्रसम्पाते प्रवृत्ते धनुः उद्यम्य तदा हृषीकेशम् इदं वाक्यम् आह? अथ कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा शस्त्रसम्पाते प्रवृत्ते धनुः उद्यम्य तदा हृषीकेशम् इदं वाक्यम् आह।
अस्मिन् वाक्ये सम्बोधनपदं किम्? महीपते

तात्पर्यम्

महीपते! अथ अर्जुनः युद्धसन्नद्धान् कौरवान् अपश्यत्। तदा शस्त्रप्रहारोऽपि आरब्धः। अर्जुनः धनुः उद्यम्य श्रीकृष्णम् एवम् अवदत्।

व्याकरणम्

अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः।

प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः॥

हृषीकेशं तदा वाक्यमिदमाह महीपते।

सन्धिः

धनुरुद्यम्य धनुः + उद्यम्य विसर्गसन्धिः (रेफः)।
हृषीकेशं तदा हृषीकेशम् + तदा अनुस्वारसन्धिः।

समासः

महीपते मह्याः पतिः, तत्सम्बुद्धौ षष्ठीतत्पुरुषः।
कपिध्वजः कपिः द्वजे सस्य सः बहुव्रीहिः।
शस्त्रसम्पाते शस्त्राणां सम्पातः, तस्मिन् षष्ठीतत्पुरुषः।
हृषीकेशं हृषीकाणाम् ईशः
हृषीकाणीन्द्रियाण्याहुस्तेषामीशो यतो भवान्।हृषीकेशस्ततो विष्णो ख्यातो देवेषु केशव॥ – महाभरतम्
षष्ठीतत्पुरुषः। (हृषीकम् इन्द्रियम्)

कृतन्तः

व्यवस्थितान् वि + अव् + स्था + क्त (कर्तरि), तान्।
प्रवृत्ते प्र + वृत् + क्त (कर्तरि), तस्मिन्।
सम्पाते सम् + पत् + घञ् (भावे), तस्मिन्।

तद्धितान्तः

पाण्डवः पाण्डु + अण् (अपत्यार्थे) । पाण्डोः अपत्यं पुमान् इति पाण्डवः ।
धार्तराष्ट्रान् धृतराष्ट्र + अण् (अपत्यार्थे)। धृतराष्ट्रस्य अपत्यानि पुमांसः।
Advertisements
01-19-20-A

01-15-18

01-15-16

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः।

पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः।।1.15।।

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः।

नकुलः सहदेवश्च सुघोषमणिपुष्पकौ।।1.16।।

पदच्छेतः

पाञ्चजन्यम्, हृषीकेशः, देवदत्तम्, धनञ्जयः।

पौण्ड्रम्, दध्मौ, महाशङ्खम्, भीमकर्मा, वृकोदरः॥

अनन्तविजयम्, राजा, कुन्तीपुत्रः, युधिष्ठिरः।

नकुलः, सहदेवः, च, सुघौषमणिपुष्पकौ॥

पदपरिचयः

पदम् विवरणम् पदम् विवरणम्
पाञ्चजन्यम् अ. पुं. द्वि. एक. हृषीकेशः अ. पुं. प्र. एक.
देवदत्तम् अ. पुं. द्वि. एक. धनञ्जयः अ. पुं. प्र. एक.
पौण्ड्रम् अ. पुं. द्वि. एक. दध्मौ ध्म-पर. कर्तरि. लिट्. प्रपु. एक.
महाशङ्खम् अ. पुं. द्वि. एक. भीमकर्मा भीमकर्मन्-न. पुं. प्र. एक.
वृकोदरः अ. पुं. प्र. एक. अनन्तविजयम् अ. पुं. द्वि. एक.
राजा राजन्-न. पुं. प्र. एक. कुन्तीपुत्रः अ. पुं. प्र. एक.
युधिष्ठिरः अ. पुं. प्र. एक. नकुलः अ. पुं. प्र. एक.
सहदेवः अ. पुं. प्र. एक. अव्ययम्
सुघौषमणिपुष्पकौ अ. पुं. द्वि. द्विव.

पदार्थः

पदम् अर्थः पदम् अर्थः
हृषीकेशः श्रीकृष्णः पाञ्चजन्यम् तन्नामकम्
धनञ्जयः अर्जुनः देवदत्तम् तन्नामकम्
भावकर्मा भयङ्करकार्यकारी वृकोदरः भामः
पौण्ड्रम् तन्नामकम् महाशङ्खम् महाकारकं शङ्खम्
कुन्तीपुत्रः कुन्तीसुतः राजा युधिष्ठिरः महाराजः युधिष्ठिरः
अनन्तविजयम् तन्नामकम् नकुलः सहदेवश्च नकुलः सहदेवश्च
सुघोषमणिपुष्पकौ तन्नामकम् दध्मौ अधमत्

अन्वयः

हृषिकेशः पाञ्चजन्यं धनञ्जयः देवदत्तं भीमकर्मा वृकोदरः महाशङ्खं पौण्ड्रं कुन्तीपुत्रः राजा युधिष्ठिरः अनन्तविजनं नकुलः सहदेवः च सुघोषमणिपुष्पकौ दध्मौ।

आकाङ्क्षा

दध्मौ
कः दध्मौ? हृषीकेशः दध्मौ।
हृषीकेशः पुनश्च कः दध्मौ।? हृषीकेशः धनञ्जयशच दध्मौ।।
हृषीकेशः धनञ्जयः पुनश्च कः दध्मौ? हृषीकेशः धनञ्जयः वृकोदरश्च दध्मौ।
हृषीकेशः धनञ्जयः कीदृशश्च वृकोदरः दध्मौ? हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः च दध्मौ।
हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः पुनश्च कः दध्मौ? हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः युधिष्ठरश्च दध्मौ।
हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः कीदृशश्च युधिष्ठरः दध्मौ? हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः कुन्तीपुत्रः युधिष्ठरः च दध्मौ।
हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः पुनः कीदृशश्च कुन्तीपुत्रः युधिष्ठरः दध्मौ? हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः कुन्तीपुत्रः राजा युधिष्ठरः च दध्मौ।
हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः कुन्तीपुत्रः राजा युधिष्ठरः पुनश्च कः दध्मौ? हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः कुन्तीपुत्रः राजा युधिष्ठरः नकुलश्च दध्मौ।
हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः कुन्तीपुत्रः राजा युधिष्ठरः नकुलः पुनश्च कः दध्मौ? हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः कुन्तीपुत्रः राजा युधिष्ठरः नकुलः सहदेवश्च दध्मौ।
हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः कुन्तीपुत्रः राजा युधिष्ठरः नकुलः सहदेवश्च कं कं दध्मौ? हृषीकेशः पाञ्चजन्यम्, धनञ्जयः देवदत्तम्, भीमकर्मा वृकोदरः पौण्ड्रं महाशङ्खम्, कुन्तीपुत्रः राजा युधिष्ठरः अनन्तविजयम्,  नकुलः सहदेवश्च सुघोषमणिपुष्पकौ दध्मौ।

तात्पर्यम्

भगवान् श्रीकृष्णः स्वीयं पाञ्चजन्यम् अधमत्। अर्जुनः देवदत्तं नामकं स्वीयं पाञ्चजन्यम् अधमत्। भामस्तु भयङेकरणां कार्याणां करणे कुशलः। पौण्ड्रनामकः तस्य शङ्कोऽपि महान् एव। सः तम् अधमत्। युधिष्ठिरः अनन्तविजयनामकं शङ्खम् अधमत्। नकुलः सुघोषनामकं सहदेवः च मणिपुष्पकनामकं शङ्कम् अधमत्।

व्याकरणम्

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः।

पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः।।1.15।।

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः।

नकुलः सहदेवश्च सुघोषमणिपुष्पकौ।।1.16।।

सन्धिः

पाञ्चजन्यं हृषीकेशः पाञ्चजन्यम् + हृषीकेशः अनुस्वारसन्धिः
हृषीकेशो देवदत्तं हृषीकेशः + देवदत्तं विसर्गसन्धिः (सकारः) रेफ, उकारः, गुणः
देवदत्तं धनञ्जयः देवदत्तम् + धनञ्जयः अनुस्वारसन्धिः
पौण्ड्रं दध्मौ पौण्ड्रम् + दध्मौ अनुस्वारसन्धिः
महाशङ्खं भीमकर्मा महाशङ्खम् + भीमकर्मा अनुस्वारसन्धिः
अनन्तविजयं राजा अनन्तविजयम् + राजा अनुस्वारसन्धिः
कुन्तीपुत्रो युधिष्ठिरः कुन्तीपुत्रः + युधिष्ठिरः विसर्गसन्धिः (सकारः) रेफ, उकारः, गुणः
सहदेवश्च सहदेवः + च विसर्गसन्धिः (सकारः) श्चुत्वम्

समासः

हृषीकेशः हृषीकाणाम् ईशः

हृषीकाणीन्द्रियाण्याहुस्तेषामीशो यतो भवान्।

हृषीकेशस्ततो विष्णो ख्यातो देवेषु केशव॥ – महाभरतम्

षष्ठीतत्पुरुषः। (हृषीकम् इन्द्रियम्)
महाशङ्खम् महान् शङखः महाशङ्खः, तम् कर्मधारयः।
वृकोधरः वृकस्य उदरम् इव उदरं यस्य सः बहुव्रीहिः।
कुन्तीपुत्ररः कुन्त्याः पुत्रः षष्ठीतत्पुरुषः।
युधिष्ठिरः युधि स्थिरः सपुतमीतत्पुरुषः। समासे सति षत्वम्।
धनञ्जयः धनं जयति इति धनञ्जयः

सर्वाञ्जनपताञ्जित्वा वित्तमादाय केवलम्।

मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनञ्जयम्॥ – महाभारतम्

कर्तरि खश् उपपदसमासश्च।

तद्धितान्तः

पाञ्चजन्यः पञ्चजन + ञ्य (भावार्थे)। पञ्चजने भवः।

सः तु पञ्चजनं हत्वा शङ्खं लेभे जनार्धनः।

यः स देवमनुष्येषु पाञ्चजन्य इति श्रुतः॥ हरिवंशः -८९२७

01-17 – 18

काश्यश्च परमेष्वासः शिखण्डी च महारथः।

धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः।।1.17।।

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते।

सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक्।।1.18।।

पदच्छेतः

काश्यः, च, परमेश्वासः, शिखण्डी, च, महारथः।

धृष्टद्यूम्नः, विराटः, च, सात्यकिः, च, अपराजितः॥

द्रूपदः, द्रौपदेयाः, च, सर्वशः, पृथिवीपते।

सौभद्रः, च, महाबाहुः, शङ्खान्, दध्मुः, पृथक्, पृथक्॥

पदपरिचयः

पदम् विवरणम् पदम् विवरणम्
काश्यः अ. पुं. प्र. एक. अव्ययम्
परमेश्वासः अ. पुं. प्र. एक. शिखण्डी शिखण्डिन्-न. पुं. प्र. एक.
महारथः ई. पुं. प्र. बहु. धृष्टद्यूम्नः न. पुं. प्र. एक.
विराटः अ. पुं. प्र. एक. सात्यकिः इ. पुं. प्र. एक.
अपराजितः अ. पुं. प्र. एक. द्रूपदः अ. पुं. प्र. एक.
द्रौपदेयाः अ. पुं. प्र. बहु. सर्वशः अव्ययम्
पृथिवीपते इ. पुं. सम्बो. एक. सौभद्रः अ. पुं. प्र. एक.
महाबाहुः उ. पुं. प्र. एक. शङ्खान् अ. पुं. द्वि. बहु.
दध्मुः ध्मा-पर. कर्तरि लिट्. प्रपु. एक. पृथक् अव्ययम्

पदार्थः

पदम् अर्थः पदम् अर्थः
पृथिवीपते हे धृतराष्ट्र! परमेष्वासः परमधनुर्धरः
काश्यः काश्याः राजा महारथः योधानां दशसहस्रेण योद्धा
शिखण्डी शिखण्डी धृष्टद्युम्नः धृष्टद्युम्नः
विराटः विराटराजः अपराजितः पराजेतुम् अशक्यः
सात्यकिः सात्यकिः द्रुपदः द्रुपदः
द्रौपदेयाः द्रौपद्याः पुत्राः महाबाहुः महान्तौ बाहू यस्य सः
सौभद्रः च अभिमन्युः च पृथक् पृथक् अन्यान् अन्यान्
शङ्खान् शङ्खान् सर्वशः सर्वे
दध्मुः अधमन्

अन्वयः

पृथवीपते! परमेश्वासः काश्यः, महारथः शिखण्डी, धृष्टद्युम्नः, विराटः, अपराजितः सात्यकिः, द्रुपदः, द्रौपदेयाः, महाबाहुः सौभद्रः च, पृथक् पृथक् शङ्खान् सर्वशः दध्मुः।

आकाङ्क्षा

दध्मुः
के दध्मुः? काश्यः, शिखण्डी, धृष्टद्युम्नः, विराटः, सात्यकिः, द्रुपदः, द्रौपदेयाः, सौभद्रः च दध्मुः।
कीदृशः काश्यः, कीदृशः शिखण्डी, धृष्टद्युम्नः, विराटः, कीदृशः सात्यकिः, द्रुपदः, द्रौपदेयाः, कीदृशः सौभद्रः च दध्मुः? परमेश्वासः काश्यः, महारथः शिखण्डी, धृष्टद्युम्नः, विराटः, अपराजितः सात्यकिः, द्रुपदः, द्रौपदेयाः, महाबाहुः सौभद्रः च दध्मुः।
परमेश्वासः काश्यः, महारथः शिखण्डी, धृष्टद्युम्नः, विराटः, अपराजितः सात्यकिः, द्रुपदः, द्रौपदेयाः, महाबाहुः सौभद्रः च कति दध्मुः? परमेश्वासः काश्यः, महारथः शिखण्डी, धृष्टद्युम्नः, विराटः, अपराजितः सात्यकिः, द्रुपदः, द्रौपदेयाः, महाबाहुः सौभद्रः च सर्वशः दध्मुः।
परमेश्वासः काश्यः, महारथः शिखण्डी, धृष्टद्युम्नः, विराटः, अपराजितः सात्यकिः, द्रुपदः, द्रौपदेयाः, महाबाहुः सौभद्रः च कान् सर्वशः दध्मुः? परमेश्वासः काश्यः, महारथः शिखण्डी, धृष्टद्युम्नः, विराटः, अपराजितः सात्यकिः, द्रुपदः, द्रौपदेयाः, महाबाहुः सौभद्रः च शङ्खान् सर्वशः दध्मुः।
परमेश्वासः काश्यः, महारथः शिखण्डी, धृष्टद्युम्नः, विराटः, अपराजितः सात्यकिः, द्रुपदः, द्रौपदेयाः, महाबाहुः सौभद्रः च कथं शङ्खान् सर्वशः दध्मुः? परमेश्वासः काश्यः, महारथः शिखण्डी, धृष्टद्युम्नः, विराटः, अपराजितः सात्यकिः, द्रुपदः, द्रौपदेयाः, महाबाहुः सौभद्रः च प्रथक् प्रथक् शङ्खान् सर्वशः दध्मुः।
अस्मिन् वाक्ये सम्बोधनपदं किम्? पृथवीपते

तात्पर्यम्

हे प्रथवीपते धृतराष्ट्र! युद्धार्थम् उपस्थितः काशिराजः महान् धनुर्धरः अस्ति। तादृशः काशिराजः महारथः द्रुपदपुत्रः धृष्टद्युम्नः, विराटराजः, अपराजितः सात्यकिः, द्रुपदमहाराजः, द्रौपद्याः पुत्राः उपपाण्डवाः, महाबाहुः अभिमन्युश्चेति सर्वेऽपि प्रथक् प्रथक् शङ्खान् अधमन्।

व्याकरणम्

सन्धिः

काश्यश्च काश्यः + च विसर्गसन्धिः (सकारः), श्चुत्वम्
विराटश्च विराटः + च विसर्गसन्धिः (सकारः), श्चुत्वम्
धृष्टद्युम्नो विराटश्च धृष्टद्युम्नः + विराटश्च विसर्गसन्धिः (सकारः), रेफः, उकार, गुणः
सात्यकिश्च सात्यकिः + च विसर्गसन्धिः (सकारः), श्चुत्वम्
सात्यकिश्चापराजितः सात्यकिश्च + अपराजितः सवर्णदीर्धसन्धिः
द्रौपदेयाश्च द्रौपदेयाः + च विसर्गसन्धिः (सकारः), श्चुत्वम्
द्रुपदो द्रौपदेयाश्च द्रुपदः + द्रौपदेयाश्च विसर्गसन्धिः (सकारः), रेफः, उकार, गुणः
सौभद्रश्च सौभद्रः + च विसर्गसन्धिः (सकारः), श्चुत्वम्

समासः

पृथिवीपते पृथिव्याः पतिः, तत्सम्बुद्धौ षष्टितत्पुरुषः।
परमेष्वासः आस्ते अत्र इति आसः। इषोः आसः इष्वासः, धनुः इत्यर्थः। परमः इष्वासः यस्य सः। बहुव्रीहिः।
धृष्टुद्युम्नः धृष्टं द्युम्नं येन सः बहुव्रीहिः।
अपराजितः न पराचितः नञ्-तत्पुरुषः।
महाबाहुः महन्तौ बाहुः यस्य सः बहुव्रीहिः।

तद्धितान्तः

काश्यः काशि + ञ्यङ् (राजा इत्यर्थे)। काश्याः राजा।
सात्यकिः सत्यक + इञ् (अपत्यार्थे)। सत्यकस्य अपत्यं पुमान्।
शिखण्डी शिखण्ड + इनि (मतुबर्थे)। शिखण्डः चूडा अस्य अस्मिन् वा अस्ति।
01-15-18

01-14-B

01-14-B

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ।

माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः।।1.14।।

पदच्छेतः

ततः, श्वेतैः, हयैः, युक्ते, महति, स्यन्दने, स्थितौ।

माधवः, पाण्डवः, च, एव, दिव्यौ, शङ्खौ, प्रदध्मतुः॥

पदपरिचयः

पदम् विवरणम् पदम् विवरणम्
ततः अव्ययम् श्वेतैः अ. पुं. त्रि. बहु.
हयैः अ. पुं. त्रि. बहु. युक्ते अ. नपुं?. स. एक.
महति अ. नपुं?. स. एक. स्यन्दने अ. नपुं?. स. एक.
स्थितौ अ. पुं. प्र. द्विव. माधवः अ. पुं. प्र. एक.
पाण्डवः अ. पुं. प्र. एक. अव्ययम्
एव अव्ययम् दिव्यौ अ. पुं. द्वि. द्विव.
शङ्खौ अ. पुं. द्वि. द्विव. प्रदध्मतुः ध्मा -पर. कर्तरि. लिट्. प्रपु. द्विव.

पदार्थः

पदम् अर्थः पदम् अर्थः
ततः तस्मात्परम् माधवः श्रीकृष्णः
पाण्डवाश्च अर्जुणश्च श्वतैः धवलैः
हयैः अश्वैः युक्ते सम्युक्ते
महति विशाले स्यन्दने रथे
स्थितौ उपविष्टौ दिव्यौ अलौकिकौ
शङ्खौ शङ्खौ प्रदध्मतुः ध्मातवन्तौ

अन्वयः

ततः माधवः पाण्डवश्च श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ प्रदध्मतुः।

आकाङ्क्षा

प्रदध्मतुः
कौ प्रदध्मतुः? माधवः पाण्डवश्च  प्रदध्मतुः।
माधवः पाण्डवश्च कौ  प्रदध्मतुः? माधवः पाण्डवश्च शङ्खौ  प्रदध्मतुः।
माधवः पाण्डवश्च कीदृशौ शङ्खौ  प्रदध्मतुः? माधवः पाण्डवश्च दिव्यौ शङ्खौ  प्रदध्मतुः।
माधवः पाण्डवश्च कथंभूतौ दिव्यौ शङ्खौ  प्रदध्मतुः? माधवः पाण्डवश्च स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः।
माधवः पाण्डवश्च कुत्र स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः? माधवः पाण्डवश्च स्यन्दने स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः।
माधवः पाण्डवश्च कीदृशे स्यन्दने स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः? माधवः पाण्डवश्च महति स्यन्दने स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः।
माधवः पाण्डवश्च पुनश्च कीदृशे महति स्यन्दने स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः? माधवः पाण्डवश्च युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः।
माधवः पाण्डवश्च कैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः? माधवः पाण्डवश्च अश्वैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः।
माधवः पाण्डवश्च कीदृशैः अश्वैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः? माधवः पाण्डवश्च श्वेतैः अश्वैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः।
कस्मातपरं माधवः पाण्डवश्च श्वेतैः अश्वैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः? ततः माधवः पाण्डवश्च श्वेतैः अश्वैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः।

तात्पर्यम्

ततः पश्चात् भगवान् श्रीकृष्णः अर्जुनश्च धवलवर्णैः अश्वैः उह्यमानेन महता रथेन तत्र समागतौ। तौ च युद्धोत्साहवर्धनाय स्वीयौ अलौकिकौ शङ्खौ ध्मातवन्तौ।

व्याकरणम्

सन्धिः

श्वेतैर्हयैः श्वेतैः + हयैः विसर्गसन्धिः (रेफः)
श्वेतैर्हयैर्युक्ते श्वेतैर्हयैः + युक्ते विसर्गसन्धिः (रेफः)
पाण्डवश्च पाण्डवः + च विसर्गसन्धिः (सकारः) श्चुत्वम्
पाण्डवश्चैव पाण्डवश्च + एव वृद्धिसन्धिः

समासः

माधवः मायाः (लक्ष्म्याः) धवः षष्ठितत्पुरुषः

कृदन्तः

स्यन्दने स्यन्द् + ल्युट् (करणे), तस्मिन्।

स्यन्दन्ते (गच्छन्ति) अनेन इति स्यन्दनम्।

स्थितौ स्था + क्त। (कर्तरि)

तद्धितान्तः

पाण्डवः पाण्डु + अण् (अपत्यार्थे)। पाण्डोः अपत्यं पुमान्।
दिव्यौ दिव् + यत् (भवार्थे)। दिवि भवौ।
01-14-B

01-14-A

01-14-A

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ।

माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः।।1.14।।

पदच्छेतः

ततः, श्वेतैः, हयैः, युक्ते, महति, स्यन्दने, स्थितौ।

माधवः, पाण्डवः, च, एव, दिव्यौ, शङ्खौ, प्रदध्मतुः॥

पदपरिचयः

पदम् विवरणम् पदम् विवरणम्
ततः अव्ययम् श्वेतैः अ. पुं. त्रि. बहु.
हयैः अ. पुं. त्रि. बहु. युक्ते अ. नपुं?. स. एक.
महति अ. नपुं?. स. एक. स्यन्दने अ. नपुं?. स. एक.
स्थितौ अ. पुं. प्र. द्विव. माधवः अ. पुं. प्र. एक.
पाण्डवः अ. पुं. प्र. एक. अव्ययम्
एव अव्ययम् दिव्यौ अ. पुं. द्वि. द्विव.
शङ्खौ अ. पुं. द्वि. द्विव. प्रदध्मतुः ध्मा -पर. कर्तरि. लिट्. प्रपु. द्विव.

पदार्थः

पदम् अर्थः पदम् अर्थः
ततः तस्मात्परम् माधवः श्रीकृष्णः
पाण्डवाश्च अर्जुणश्च श्वतैः धवलैः
हयैः अश्वैः युक्ते सम्युक्ते
महति विशाले स्यन्दने रथे
स्थितौ उपविष्टौ दिव्यौ अलौकिकौ
शङ्खौ शङ्खौ प्रदध्मतुः ध्मातवन्तौ

अन्वयः

ततः माधवः पाण्डवश्च श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ प्रदध्मतुः।

आकाङ्क्षा

प्रदध्मतुः
कौ प्रदध्मतुः? माधवः पाण्डवश्च  प्रदध्मतुः।
माधवः पाण्डवश्च कौ  प्रदध्मतुः? माधवः पाण्डवश्च शङ्खौ  प्रदध्मतुः।
माधवः पाण्डवश्च कीदृशौ शङ्खौ  प्रदध्मतुः? माधवः पाण्डवश्च दिव्यौ शङ्खौ  प्रदध्मतुः।
माधवः पाण्डवश्च कथंभूतौ दिव्यौ शङ्खौ  प्रदध्मतुः? माधवः पाण्डवश्च स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः।
माधवः पाण्डवश्च कुत्र स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः? माधवः पाण्डवश्च स्यन्दने स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः।
माधवः पाण्डवश्च कीदृशे स्यन्दने स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः? माधवः पाण्डवश्च महति स्यन्दने स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः।
माधवः पाण्डवश्च पुनश्च कीदृशे महति स्यन्दने स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः? माधवः पाण्डवश्च युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः।
माधवः पाण्डवश्च कैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः? माधवः पाण्डवश्च अश्वैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः।
माधवः पाण्डवश्च कीदृशैः अश्वैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः? माधवः पाण्डवश्च श्वेतैः अश्वैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः।
कस्मातपरं माधवः पाण्डवश्च श्वेतैः अश्वैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः? ततः माधवः पाण्डवश्च श्वेतैः अश्वैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ  प्रदध्मतुः।

तात्पर्यम्

ततः पश्चात् भगवान् श्रीकृष्णः अर्जुनश्च धवलवर्णैः अश्वैः उह्यमानेन महता रथेन तत्र समागतौ। तौ च युद्धोत्साहवर्धनाय स्वीयौ अलौकिकौ शङ्खौ ध्मातवन्तौ।

व्याकरणम्

सन्धिः

श्वेतैर्हयैः श्वेतैः + हयैः विसर्गसन्धिः (रेफः)
श्वेतैर्हयैर्युक्ते श्वेतैर्हयैः + युक्ते विसर्गसन्धिः (रेफः)
पाण्डवश्च पाण्डवः + च विसर्गसन्धिः (सकारः) श्चुत्वम्
पाण्डवश्चैव पाण्डवश्च + एव वृद्धिसन्धिः

समासः

माधवः मायाः (लक्ष्म्याः) धवः षष्ठितत्पुरुषः

कृदन्तः

स्यन्दने स्यन्द् + ल्युट् (करणे), तस्मिन्।

स्यन्दन्ते (गच्छन्ति) अनेन इति स्यन्दनम्।

स्थितौ स्था + क्त। (कर्तरि)

तद्धितान्तः

पाण्डवः पाण्डु + अण् (अपत्यार्थे)। पाण्डोः अपत्यं पुमान्।
दिव्यौ दिव् + यत् (भवार्थे)। दिवि भवौ।
01-14-A

01-11-13

01-11

अयनेषु च सर्वेषु यथाभागमवस्थिताः।

भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि।।1.11।।

पदच्छेतः

अयनेषु, च, सर्वेषु, यथाभागम्, अवस्थिताः।

भीष्मम्, एव, अभिरक्षन्तु, भवन्तः, सर्वे, एव, हि॥

पदपरिचयः

पदम् विवरणम् पदम् विवरणम्
अयनेषु अ. नपुं. स. बहु. अन्वयम्
सर्वेषु अ. पुं. सर्व. स. बहु. यथाभागम् अन्वयम्
अवस्थिताः अ. पुं. प्र. बहु. भीष्मम् अ. पुं. द्वि. एक.
एव अन्वयम् अभिरक्षन्तु अभि + रक्ष् – पर.लोट्.प्रत.बहु.
भवन्तः भवत्-त. पुं. प्र. बहु. सर्वे अ. पुं. सर्व. प्र. बहु.
एव अन्वयम् हि अन्वयम्

पदार्थः

पदम् अर्थः पदम् अर्थः
सर्वेषु सकलेषु अयनेषु व्यूहानां द्वारेषु
यथाभागम् स्वस्वभागे अवस्थिताः स्थिताः
भवन्तः सर्वे समस्ताः भवन्तः भीष्मम् एव भीष्माचार्यम् एव
अभिरक्षन्तु संरक्षन्तु

अन्वयः

सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे भीष्मम् एव अभिरक्षन्तु।

आकाङ्क्षा

अभिरक्षन्तु
के अभिरक्षन्तु? भवन्तः अभिरक्षन्तु।
भवन्तः कीयन्तः अभिरक्षन्तु? भवन्तः सर्वे अभिरक्षन्तु।
कीदृशाः भवन्तः सर्वे अभिरक्षन्तु? अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु।
कथम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु? यथाभागम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु।
कुत्र यथाभागम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु? अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु।
कतिषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु? सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु।
सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे कम् एव अभिरक्षन्तु? सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे भीष्मम् एव अभिरक्षन्तु।

तात्पर्यम्

भवन्तः सर्वेऽपि व्यूहानां द्वारदेशेषु स्वस्वस्थाने तिष्ठन्तु। सेनाधिपतीं भीष्मं च रक्षन्तु।

व्याकरणम्

सन्धिः

एवाभिरक्षन्तु एव + अभिरक्षन्तु सवर्णदीर्धसन्धिः
सर्व एव सर्वे + एव यान्तवान्तादेशसन्धिः, यलोपः, प्रकृतिभावः

समासः

यथाभागम् भागम् अवतिक्रम्य अव्ययीभावः

कृदन्तः

अवस्थिताः अव + स्था + क्त (कर्तरि)
अयनेषु अय् + ल्युट् (करणे) अयन्ते (गच्छन्ति) एभिः इति अयनानि, तेषु।

01-12

तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः।

सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्॥१.१२॥

पदच्छेतः

तस्य, सञ्जनयन्, हर्षम्, कुरुवृद्धः, पितामहः।

सिंहनादम्, विनद्य, उच्चैः, शङ्खम्, दध्मौ, प्रतापवान्॥

पदपरिचयः

पदम् विवरणम् पदम् विवरणम्
तस्य तद्-द. सर्व. पुं. ष. एक. सञ्जनयन् सञ्जनयत्-त. पुं. प्र. एक.
हर्षम् अ. पुं. द्वि. एक. कुरुवृद्धः अ. पुं. प्र. एक.
पितामहः अ. पुं. प्र. एक. सिंहनादम् णमुलन्तम् अव्ययम्
विनद्य ल्यबन्तम् अव्ययम् उच्चैः अव्ययम्
शङ्खम् अ. पुं. द्वि. एक. दध्मौ ध्मा-पर. कर्तरि. लिट्. प्रपु. एक.
प्रतापवान्॥ प्रतापवत्-त. पुं. प्र. एक.

पदार्थः

पदम् अर्थः पदम् अर्थः
प्रतापवान् तेजस्वी कुरुवृद्धः कुरुषु ज्येष्टः
पितामहः भीष्मः तस्य दुर्योधनस्य
हर्षम् मोदम् सञ्जनयन् उत्पादयन्
सिंहनादं विनद्य सिहः इव गर्जित्वा शङखम् शङखम्
उच्चैः गाढम् दध्मौ आध्मातवान्

अन्वयः

प्रतापवान् कुरुवृद्धः पितामहः तस्य हर्षं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ।

आकाङ्क्षा

दध्मौ
कः दध्मौ? पितामहः दध्मौ।
कीदृशः पितामहः दध्मौ? कुरुवृद्धः पितामहः दध्मौ।
पुनः कीदृशः कुरुवृद्धः पितामहः दध्मौ? प्रतापवान् कुरुवृद्धः पितामहः दध्मौ।
प्रतापवान् कुरुवृद्धः पितामहः कं दध्मौ? प्रतापवान् कुरुवृद्धः पितामहः शङ्खं दध्मौ।
प्रतापवान् कुरुवृद्धः पितामहः कथं शङ्खं दध्मौ? प्रतापवान् कुरुवृद्धः पितामहः उच्चैः शङ्खं दध्मौ।
प्रतापवान् कुरुवृद्धः पितामहः किं कृत्वा उच्चैः शङ्खं दध्मौ? प्रतापवान् कुरुवृद्धः पितामहः विनद्य उच्चैः शङ्खं दध्मौ।
प्रतापवान् कुरुवृद्धः पितामहः कथं विनद्य उच्चैः शङ्खं दध्मौ? प्रतापवान् कुरुवृद्धः पितामहः सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ।
प्रतापवान् कुरुवृद्धः पितामहः किं कुर्वन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ? प्रतापवान् कुरुवृद्धः पितामहः सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ।
प्रतापवान् कुरुवृद्धः पितामहः कं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ? प्रतापवान् कुरुवृद्धः पितामहः हर्षं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ।
प्रतापवान् कुरुवृद्धः पितामहः कस्य हर्षं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ? प्रतापवान् कुरुवृद्धः पितामहः तस्य हर्षं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ।

तात्पर्यम्

तदा पितामहः भीष्मः सिंहः इव उच्चैः गर्जनम् अकरोत्। ततः शङ्खमपि उच्चैः अधमत् येन दु्र्योधनस्य महान् सन्तोषः जातः।

व्याकरणम्

सन्धिः

हर्षं कुरुवृद्धः हर्षम् + कुरुवृद्धः अनुस्वारसन्धिः
विनद्योच्चैः विनद्य + उच्चैः गुणसन्धिः
सिंहनादं विनद्योच्चैः सिंहनादम् + विनद्योच्चैः अनुस्वारसन्धिः
शङ्खं दध्मौ शङ्खम् + दध्मौ अनुस्वारसन्धिः

समासः

कुरुवृद्धः कुरुषु वृद्धः सप्तमीतत्पुरुषः

कृदन्तः

सञ्जनयन् सम् + जन् + णिच् + शतृ कर्तरि
सिंहनादं विनद्य सिंह + नद् + णमुल् (भावे) उपमानवाचके शब्दे उपपदे धातोः णमुल् (अम्)

वि + नद् + ल्यप् (भावे)

तद्धितान्तः

पितामहः पितृ + डामहच् (पिता इत्यर्थे)। पितुः पिता
प्रतापवान् प्रताप् + मतुप्। प्रतापः अस्य अस्मिन् वा अस्ति।


01-13

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः।

सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्।।1.13।।

पदच्छेतः

ततः, शङ्खाः, च, भेर्यः, च, पणवानकगोमुखाः।

सहसा, एव, अभ्यहन्यन्त, सः, शब्दः, तुमलः, अभवत्॥

पदपरिचयः

पदम् विवरणम् पदम् विवरणम्
ततः अन्वयम् शङ्खाः अ. पुं. प्र. बहु.
अन्वयम् भेर्यः इ. स्त्री. प्र. बहु.
पणवानकगोमुखाः अ. पुं. प्र. बहु. सहसा अन्वयम्
एव अनवयम् अभ्यहन्यन्त अभि + हन्-आत्म. कर्मणि लङ् प्रपु. बहु.
सः तद्-द. सर्व. पुं. प्र. एक. शब्दः अ. पुं. प्र. एक.
तुमलः अ. पुं. प्र. एक. अभवत् भू-पर. कर्तरि लङ् प्रपु. एक.

पदार्थः

पदम् अर्थः पदम् अर्थः
तदा तस्मिन् समये शङ्खाः शङ्खाः
भेर्यः भेर्यः पणवानकगोमुखाः पणवाः आनकाः गोमुखाश्च
सहसा एव युगपत् एव अभ्यहन्यन्त नादिताः अभवन्
सः सः शब्दः नादः
तुमुलः धोरः अभवत् सञ्जातः

अन्वयः

तदा शङ्खाः भेर्यः पणवानकगोमुखाः च सहसा एव अभ्यहन्यन्त। सः शब्दः तुमुलः अभवत्।

आकाङ्क्षा

अभ्यहन्यन्त
के अभ्यहन्यन्त? शङ्खाः अभ्यहन्यन्त।
शङ्खाः पुनश्च काः अभ्यहन्यन्त? शङ्खाः भेर्यः अभ्यहन्यन्त।
शङ्खाः भेर्यः पुनश्च के अभ्यहन्यन्त? शङ्खाः भेर्यः पणवानकगोमुखाः अभ्यहन्यन्त।
शङ्खाः भेर्यः पणवानकगोमुखाः च कथं  अभ्यहन्यन्त? शङ्खाः भेर्यः पणवानकगोमुखाः च सहसा एव अभ्यहन्यन्त।
कदा शङ्खाः भेर्यः पणवानकगोमुखाः च सहसा एव अभ्यहन्यन्त? तदा शङ्खाः भेर्यः पणवानकगोमुखाः च सहसा एव अभ्यहन्यन्त
अभवत्
कः अभवत्? सः अभवत्।
सः कः अभवत्? सः शब्दः अभवत्।
सः शब्दः कीदृशः अभवत्? सः शब्दः तुमुलः अभवत्।

तात्पर्यम्

तस्मिन् एव काले शङ्खानां धमनम्, भेरीणां ताडनम्, पणवानाम् आनकानां गोमुखानां च वादनमं सम्पन्नम्, येन सर्वत्र महान् शब्दः संजातः।

व्याकरणम्

सन्धिः

शङ्खाश्च शङ्खाः + च विसर्गसन्धिः (सकारः) श्चुत्वम्
भेर्यश्च भेर्यः + च विसर्गसन्धिः (सकारः) श्चुत्वम्
सहसैवाभ्यहन्यन्त सहसा + एव वृद्धिसन्धिः
सहसैव + अभ्यहन्यन्त सवर्णदीर्धसन्धिः
शब्दस्तुमुलोऽभवत् शब्दः + तुमुलः विसर्गसन्धिः (सकारः)
शब्दतुमुलः + अभवत् विसर्गसन्धिः (सकारः)

रेफः, उकारः, गुणः, पूर्वरूपम्

समासः

गोमुखः गोः मुखम् इव मुखं यस्य सः बहुव्रीहिः। वाद्यविशेषः।
पणवानकगोमुखाः। पणवाश्च आनकाश्च गोमुखाश्च द्वन्द्वः। वाद्यविशेषाः।
01-11-13