01-02-03

01-02

सञ्जय उवाच

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।

आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्।।1.2।।

पदच्छेतः

दृष्ट्वा, तु, पाण्डवानीकम्, व्यूढम्, दुर्योधनः, तदा।

आचार्यम्, उपसङ्गम्य, राजा, वचनम्, अब्रवीत्॥

पदपरिचयः

पदम् विवरणम् पदम् विवरणम्
दृष्ट्वा अव्ययम् तु अव्ययम्
पाण्डवानीकम् अ. नपुं. द्वि. एक. व्यूढम् अ. नपुं. द्वि. एक.
दुर्योधनः अ. पुं. प्र. एक. तदा अव्ययम्
आचार्यम् अ. पुं. द्वि. एक. उपसङ्गम्य अव्ययम्
राजा राजन्-न. पुं. प्र. एक. वचनम् अ. नपुं. द्वि. एक.
अब्रवीत् ब्रुञ्-पर. कर्तरि लङ् प्रपु. एक.

पदार्थः

पदम् अर्थः पदम् अर्थः
तदा तु तदानीं तु व्यूढम् व्यूहत्वेन स्थापितम्
पाण्डवानीकम् पाण्डवसैन्यम् दृष्ट्वा अवलेक्य
राजा नृपः दुर्योधनः दुर्योधनः
आचार्यम् गुरुं द्रोणम् उपसङ्गम्य उपसृत्य
वचनम् वाक्यम् अब्रवीत् अवदम्

अन्वयः

तदा तु व्यूढं पाण्डवानीकं दृष्ट्वा राजा दुर्योधनः आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्।

आकाङ्क्षा

अब्रवीत्
कः अब्रवीत्? दुर्योधनः अब्रवीत्।
कीदृशः दुर्योधनः अब्रवीत्? राजा दुर्योधनः अब्रवीत्।
राजा दुर्योधनः किम् अब्रवीत्? राजा दुर्योधनः वचनम् अब्रवीत्।
राजा दुर्योधनः किं कृत्व वचनम् अब्रवीत्? राजा दुर्योधनः उपसङ्गम्य वचनम् अब्रवीत्।
राजा दुर्योधनः कम् उपसङ्गम्य वचनम् अब्रवीत्? राजा दुर्योधनः आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्।
पुनश्च किं कृत्वा राजा दुर्योधनः आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्? दृष्ट्वा राजा दुर्योधनः आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्।
किं दृष्ट्वा राजा दुर्योधनः आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्? पाण्डवानीकं दृष्ट्वा राजा दुर्योधनः आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्।
कीदृशं पाण्डवानीकं दृष्ट्वा राजा दुर्योधनः आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्? व्यूढं पाण्डवानीकं दृष्ट्वा राजा दुर्योधनः आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्।
कदा व्यूढं पाण्डवानीकं दृष्ट्वा राजा दुर्योधनः आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्? तदा तु व्यूढं पाण्डवानीकं दृष्ट्वा राजा दुर्योधनः आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्?

तात्पर्यम्

तदा व्यूहरूपेण स्थापितं पाण्डवानां सैन्यं दृष्ट्वा दुर्योधनः गुरोः द्रोणाचार्यस्य समीपं गत्वा इदं वचनम् अवदत्।

व्याकरणम्

सन्धिः

पाण्डवानीकं व्यूढं पाण्डवानीकम् + व्यूढं अनुस्वारसन्धिः
व्यूढं दुर्योधनस्तदा व्यूढम् + दुर्योधनस्तदा अनुस्वारसन्धिः
दुर्योधनस्तदा दुर्योधनः + तदा विसर्गसन्धिः (सकारः)

समासः

पाण्डवानीकम् पाण्डावानाम् अनीकम्, तत् षष्टीतत्पुरुषः।

कृदन्तः

दृष्ट्वा दृशिर् + कृत्वा
व्यूढम् वि + वह् + क्त (कर्मणि) आकारविशेषवत्त्वेन विभक्तम् इत्यर्थः।
उपसङ्गम्य उप + सम् + गम्लृ + ल्यप्
आचार्यः आ + चर् + ण्यत्। आचरणीयः (सेवनीयः) आचार्यः।
वचनम् वच् + ल्युट् (करणे) उच्यते अनेन इति वचनम्।

01-03

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्।

व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता।।1.3।।

पदच्छेतः

पश्य, एताम्, पाणहुपु्त्राणाम्, आचार्य, महतीम्, चमूम्।

व्यूढाम्, द्रुपदपुत्रेण, तव, शिष्येण, धीमता॥

पदपरिचयः

पदम् विवरणम् पदम् विवरणम्
पश्य दृशिर्-पर. कर्तरि. लोट् मपु. एक. एताम् एतद्-द. सर्व. स्त्री. द्वि. एक.
पाणहुपु्त्राणाम् अ. पुं. ष. बहु. आचार्य अ. पुं. सम्बो. एक.
महतीम् ई. स्त्री. द्वि. एक. चमूम् ऊ. स्त्री. द्वि. एक.
व्यूढाम् आ. स्त्री. द्वि. एक. द्रुपदपुत्रेण अ. पुं. ष. बहु.
तव युष्मद्-द. सर्व. ष. एक. शिष्येण अ. पुं. तृ. एक.
धीमता धीमत्-त. पुं. तृ. एक.

पदार्थः

पदम् अर्थः पदम् अर्थः
आचार्य भोः द्रोणाचार्य! तव भवतः
धीमता बुद्धिमता शिष्योण छात्रेण
द्रुपतपुत्रेण धृष्टध्युम्नेन व्यूढाम् व्यूहरूपेण स्थापिताम्
पाण्डुपुत्राणाम् पाण्डावानाम् एताम् एनाम्
महतीम् बृहतीम् चमूम् सेनाम्
पश्य वीक्षस्व

अन्वयः

आचार्य! तव धीमता शिष्येन द्रुपतपुत्रेण व्यूढां पाण्डुपुत्राणां महतीं एतां चमूं पश्य।

आकाङ्क्षा

पश्य।
कां पश्य? चमूं पश्य।
कां चमूं पश्य? एतां चमूं पश्य।
कीदृशीम् एतां चमूं पश्य? महतीम् एतां चमूं पश्य।
केषां महतीम् एतां चमूं पश्य? पाण्डुपुत्राणां महतीम् एतां चमूं पश्य।
कीदृशीं पाण्डुपुत्राणां महतीम् एतां चमूं पश्य? व्यूढां पाण्डुपुत्राणां महतीम् एतां चमूं पश्य।
केन व्यूढां पाण्डुपुत्राणां महतीम् एतां चमूं पश्य? द्रुपतपुत्रेण व्यूढां पाण्डुपुत्राणां महतीम् एतां चमूं पश्य।
कीदृशेन द्रुपतपुत्रेण व्यूढां पाण्डुपुत्राणां महतीम् एतां चमूं पश्य? शिष्येन द्रुपतपुत्रेण व्यूढां पाण्डुपुत्राणां महतीम् एतां चमूं पश्य।
पुनश्च कीदृशेन शिष्येन द्रुपतपुत्रेण व्यूढां पाण्डुपुत्राणां महतीम् एतां चमूं पश्य? धीमता शिष्येन द्रुपतपुत्रेण व्यूढां पाण्डुपुत्राणां महतीम् एतां चमूं पश्य।
कस्य धीमता शिष्येन द्रुपतपुत्रेण व्यूढां पाण्डुपुत्राणां महतीम् एतां चमूं पश्य? तव धीमता शिष्येन द्रुपतपुत्रेण व्यूढां पाण्डुपुत्राणां महतीम् एतां चमूं पश्य।
अस्मिन् श्लोके सम्बोधनपदं किम् ? आचार्य!

तात्पर्यम्

भोः आचार्य! चतुरेण तव शिष्येण धृष्टद्युम्नेन पाण्डवानां महत् सैन्यमिदम् व्यूहरूपेण स्थापितम् अस्ति। इदं पश्य।

व्याकरणम्

सन्धिः

पश्यैतां पश्य + एताम् वृद्धिसन्धिः
महतीं चमूम् महतीम् + चमूम् अनुस्वारसन्धिः
व्यूढां द्रुपदपुत्रेण व्यूढां + द्रुपदपुत्रेण अनुस्वारसन्धिः

समासः

पाणहुपु्त्राणाम् पाण्डोः पुत्राः, तेषाम् षष्ठीतत्पुरुषः।
द्रुपदपुत्रेण द्रुपतस्य पुत्रः. तेन षष्ठीतत्पुरुषः।

कृदन्तः

व्यूढाम् वि + वह् + क्त (कर्मणि)
आचार्यः आ + चर् + ण्यत्। आचरणीयः (सेवनीयः) आचार्यः।

तत्वितान्तः

धीमता धीः + मतृप्, तेन। धीः अस्य अस्मिन् वा अस्ति इति धीमान्।
Advertisements
01-02-03

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s